मितः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मितः, त्रि, (मा + क्तः “द्यतिस्यतिमास्थामित्ति किति ।” ७ । ४ । ४० । इत्याकारस्येकारा- देशः ।) परिमितः । शब्दितः । क्षिप्तः । इति माधातोमिधातोश्च क्तप्रत्ययेन निष्पन्नम् ॥ (यथा, भागवते । ८ । १३ । ३६ । “राजंश्चतुर्द्दशैतानि त्रिकालानुगतानि ते । प्रोक्तान्येभिर्मितः कल्पो युगसाहस्रपर्य्ययः ॥” यथा च नैषधचरिते । ९ । ८ । “मितञ्च सारञ्च वचो हि वाग्मिता ॥”)
