मित्त्र
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मित्त्रम्, क्ली, (मिनोति मानं करोति इति । “अमिचिमिदिशसिभ्य क्त्रः ।” उणा० ४ । १६३ । इति क्त्रः ।) शत्रोः परम् । इत्यमरः । २ । ८ । ९ ॥ अतः शत्रोः परमवस्थितो राजा मित्त्रं उपकारित्वात् । मेद्यति स्निह्यतीति त्रासु- सिति त्रः निपातात् गुणाभावः । द्बितकारं एकतकारञ्चेत्येके । इति तट्टीकायां भरतः ॥ अपि च । “राजा शत्रुरिति ख्यात एकार्थाभिनिवेशतः । भूम्यैकान्तरितो राजा स मित्त्रं मित्त्रकार्य्यतः ॥” इति शब्दरत्नावली ॥
