सामग्री पर जाएँ

मित्त्रम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मित्त्रम्, क्ली, (मिनोति मानं करोति इति । “अमिचिमिदिशसिभ्य क्त्रः ।” उणा० ४ । १६३ । इति क्त्रः ।) शत्रोः परम् । इत्यमरः । २ । ८ । ९ ॥ अतः शत्रोः परमवस्थितो राजा मित्त्रं उपकारित्वात् । मेद्यति स्निह्यतीति त्रासु- सिति त्रः निपातात् गुणाभावः । द्बितकारं एकतकारञ्चेत्येके । इति तट्टीकायां भरतः ॥ अपि च । “राजा शत्रुरिति ख्यात एकार्थाभिनिवेशतः । भूम्यैकान्तरितो राजा स मित्त्रं मित्त्रकार्य्यतः ॥” इति शब्दरत्नावली ॥

"https://sa.wiktionary.org/w/index.php?title=मित्त्रम्&oldid=158001" इत्यस्माद् प्रतिप्राप्तम्