मिथिः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मिथिः, पुं, (मेथते हिनस्ति शत्रुकुलं इति । मिथ् + “सर्व्वधातुभ्य इन् ।” उणा० ४ । ११७ । इति इन् ।) निमिराजपुत्त्रः । स तु जनकराजः । यथा । अपुत्त्रस्य तस्य निमेर्भूभुजः शरीरमराजक- भीरवस्ते मुनयः अरण्यां ममन्थुः । तत्र च कुमारी जज्ञे । जननाज्जनकसंज्ञां चासाव- वाप । अभूद्बिदेहोऽस्य पितेति वैदेहः । मथ- नान्मिथिरभूत् । तस्योदावसुः पुत्त्रोऽभवत् । इति विष्णुपुराणे ४ अंशे ५ अध्यायः ॥ (तथाच रामायणे । १ । ७१ । ४ । “निमिः परमधर्म्मात्मा सर्व्वसत्त्ववतां वरः । तस्य पुत्त्रो मिथिर्नाम जनको मिथिपुत्त्रकः ॥”)
