मिथ्यासाक्षी
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मिथ्यासाक्षी, [न्] त्रि, (मिथ्याभाषी साक्षी- साक्षाद् द्रष्टा चेति ।) कूटसाक्षी । तस्य ज्ञान- प्रकारमाह याज्ञवल्क्यः । “उक्तेऽपि साक्षिभिः साक्ष्ये यदन्ये गुणवत्तमाः । द्विगुणा वान्यथा ब्रूयुः कूटाः स्युः पूर्ब्ब- साक्षिणः ॥” मिथ्यासाक्ष्यकथने दोषमाह याशवल्क्यः । “ये पातककृतां लोका महापातकिनां तथा । अग्निदानाञ्च ये लोका ये च स्त्रीबालघाति- नाम् ॥ एतान् सर्व्वानवाप्नोति यः साक्ष्यमनृतं वदेत् । सुकृतं यत्त्वया किञ्चित् जन्मान्तरशतैः कृतम् । तत् सर्व्वं तस्य जानीहि यं पराजयसे मृषा ॥” इति मिताक्षरा ॥
