सामग्री पर जाएँ

मिन्मिन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मिन्मिनः, त्रि, सानुनासिकवाग्विशिष्टः । खोना इति भाषा । तस्य निदानं यथा, -- “आवृत्य वायुः सकफो धमनीः शब्दवाहिनीः । नरान् करोत्यक्रियकान् मूकमिन्मिनगद्गदान् ॥” इति माधवकरः ॥ अक्रियकान् इत्यत्रावचनानिति च पाठः । अवचनान् अत्रेषदर्थे नञ् । तेन ईषद्वचनान् । स एव वायुः प्रबलश्चेत्तदा मूकान् अवचनान् । मिन्मिनान् सानुनासिकान् । गद्गदान् लुप्तपद- व्यञ्जनाभिधायिनः करोतीत्यन्वयः । एषां समानकारणत्वेऽपि दुष्टेरुत्कर्षादिना अदृष्ट- वशाद्वा भेदो बोद्धव्यः ॥ * ॥ अथ तेषां चिकित्सा । “प्रस्थं घृतस्य पलिकैः शिग्रुवचालवणधातकी लोध्रैः । आजे पयसि विपक्वं सिद्धं सारस्वतं नाम्ना ॥ विधिवदुपयुज्यमानं जडगद्गदमूकतां क्षणात् जित्वा । स्मृतिमतिमेधाप्रतिभाः कुर्य्यात् संस्पष्टवाग्- भवति ॥ सारस्वतं घृतम् । “सहरिद्रा वचा कुष्ठं पिप्पली विश्वभेषजम् । अजाजी चाजमोदा च यष्टीमधुकसैन्धवम् ॥ एतानि समभागानि सूक्ष्मचूर्णानि कारयेत् । तच्चूर्णं सर्पिषालोड्य प्रत्यहं भक्षयेन्नरः ॥ एकविंशतिरात्रेण भवेच्छ्रुतिधरो नरः । मेघदुन्दुभिनिर्घोषो मत्तकोकिलनिस्वनः ॥” इति भावप्रकाशस्य द्बितीये भागे मध्यखण्डे वातव्याध्यधिकारे ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मिन्मिन [minmina] ल [l] , (ल) a. One who speaks with nasal utterance; a snuffler; आवृत्य वायुः सकफो धमनीः शब्दवाहिनीः । नरान् करोत्यक्रियकान् मूकमिन्मिलगद्गदान् ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मिन्मिन mfn. = मिण्मिणL.

"https://sa.wiktionary.org/w/index.php?title=मिन्मिन&oldid=353405" इत्यस्माद् प्रतिप्राप्तम्