सामग्री पर जाएँ

मिश्रः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मिश्रः, पुं, (मिश्र + बाहुलकात् रक् ।) गजजाति- विशेषः । यथा, -- “भद्रो मन्दो मृगो मिश्रश्चतस्रो गजजातयः ।” इति हेमचन्द्रः । ४ । २८४ ॥ श्रेष्ठः । यथा । गौरवितास्त्वार्य्यमिश्राः । इति भूरिप्रयोगः ॥ संयुक्ते, त्रि । यथा, -- “करम्बः कवरो मिश्रः संपृक्तः खचितः समाः । इति हेमचन्द्रः । ६ । १०५ ॥ उग्रादिसप्तगणान्तर्गतसप्तमगणः । स तु कृत्तिका विशाखाभ्यां भवति । इति ज्योतिषतत्त्वम् ॥

"https://sa.wiktionary.org/w/index.php?title=मिश्रः&oldid=158061" इत्यस्माद् प्रतिप्राप्तम्