मिश्रकम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मिश्रकम्, क्ली, (मिश्र + कन् ।) देवोद्यानम् । इति जटाधरः ॥ औषरलवणम् । इति राज- निर्घण्टः ॥ (मिश्र + ण्वुल् । त्रि, मिश्रणकर्त्ता । यथा, मनौ । ११ । ५० । “पिशुनः पौतिनासिक्यं सूचकः पूतिवक्त्रताम् । धान्यचौरोऽङ्गहीनत्वमातिरैक्यन्तु मिश्रकः ।” तीर्थभेदः । यथा, महाभारते । ३ । ८३ । ८२ । “ततो गच्छेत धर्म्मज्ञ ! मिश्रकं लोकविश्रुतम् । तत्र तीर्थानि राजेन्द्र ! मिश्रितानि महा- त्मना ॥”)
