सामग्री पर जाएँ

मिष्टपाकः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मिष्टपाकः, पुं, (मिष्टेन पाको यस्य ।) शर्क्करा- रसपक्वफलादिः । मोरव्वा इति पारस्यभाषा ॥ तदेकप्रकारो यथा । अपक्वाम्रं द्बिखण्डं कृत्वा तद्गात्रे शलाकया छिद्रजालकरणान्तरं चूर्ण- मिश्रितजले दण्डचतुष्टयं स्थापयित्वा जलेन धौतं कुर्य्यात् । ततो जलेन सिद्धं कृत्वा जल- त्यागपूर्ब्बकमेकतारबद्धशर्क्करारसे मग्नकरणा- नन्तरं तापं दद्यात् । रसे घनीभूते अर्द्धदण्डं यावत् तापेन निष्पन्नो भविष्यति । इति पाक- राजेश्वरः ॥

"https://sa.wiktionary.org/w/index.php?title=मिष्टपाकः&oldid=158090" इत्यस्माद् प्रतिप्राप्तम्