मिष्टान्नम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मिष्टान्नम्, क्ली, (मिष्टमन्नम् ।) मधुरद्रव्यम् । इति हलायुधः ॥ अपि च । “मिष्टान्नपानदाताथ सततं श्रद्धयान्वितः । देवपूजापरो नित्यं न प्रेतो जायते मृतः ॥” इत्यग्निपुराणम् ॥
