मिसी
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मिसी, स्त्री, (मस्यति परिणमतीति + इन् बाहुलकादत इकारः । पक्षे ङीष् ।) मधुरिका । (यथास्य पर्य्यायः । “मिसिर्मधुरिका मता ।” इति गारुडे । २०८ अः ॥) जटामांसी । शत- पुष्पा । इत्यमरभरतौ ॥ (शतपुष्पार्थे पर्य्यायो यथा, -- “शतपुष्पा शताह्वा च मधुरा कारवी मिसिः । अतिलम्बी सितच्छत्रा संहितच्छत्रिकापि च ॥ छत्रा शालेयशालिन्यौ मिश्रेया मधुरा मिषिः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) उशीरी । इति राजनिर्घण्टः ॥ अजमोदा । इति मेदिनी । से, ८ ॥
अमरकोशः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मिसी स्त्री।
जटामांसी
समानार्थक:तपस्विनी,जटा,मांसी,जटिला,लोमश,मिसी
2।4।134।1।6
तपस्विनी जटामांसी जटिला लोमशा मिसी। त्वक्पत्रमुत्कटं भृङ्गं त्वचं चोचं वराङ्गकम्.।
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, तृणम्
