मीनः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मीनः, पुं, (मीयते इति मीञ् हिंसायाम् । “फेन- मीनौ ।” उणा० ३ । ३ । इति नक् निपातितश्च ।) मत्स्यः । इत्यमरः । १ । १० । १७ ॥ (यथा, भागवते । ३ । २ । ८ । “दुर्भगो वत् लोकोऽयं यदवो नितरामपि । ये संवसन्तो न विदुर्हरिं मीन इवोडुपम् ॥”) मेषादिद्वादशराश्यन्तर्गतान्तिमराशिः । तत्- पर्य्यायः । अन्त्यभम् २ । स च पूर्ब्बभाद्रपदा- शेषपादोत्तरभाद्रपदारेवतीसमुदायेन भवति । अस्याधिष्ठातृदेवता स्त्रीमत्स्यद्बयं स च कीट- संज्ञः । जलजः । सौम्यः । अङ्गना । युग्मः । समः । द्व्यात्मकः । भक्ष्यः । उत्तरदिङ्नाथः । गुरुक्षेत्रम् । दिनात्मकश्च । इति ज्योतिस्तत्त्वम् ॥ अपि च । शीर्षपृष्ठोदयः । चरणरहितः । कफप्रकृतिः । जलचारी । निःशब्दः । पिङ्गल- वर्णः । स्निग्धः । अत्यन्तस्त्रीसङ्गः । बहु- सन्तानः । ब्राह्मणवर्णः । श्लथाङ्गश्च । तत्र जातः अतिक्रोधनः । शीघ्रगतिः । अशुचिः । कर्म्मभोगी । प्रचुरविवाहश्च भवति । इति बृहज्जातकादयः ॥ अपि च । “मीनलग्ने समुत्पन्नो रत्नकाञ्चनपूरितः । अल्परोमा महाप्राज्ञो दीर्घकालपरीक्षकः ॥” इति कोष्ठीप्रदीपः ॥ * ॥ रात्री तल्लग्ननिरूपणं यथा । सूर्पाकारतारा- चतुष्टयात्मकपूर्ब्बाषाढानक्षत्रे मस्तकोपरि दृष्टे सति मीनलग्नस्य १ । ४९ ऊनपञ्चाशत्पला- धिकैकदण्डो भवति । प्रकारान्तरे । सूर्पाकृति- ताराचतुष्टयात्मकोत्तराषाढानक्षत्रे मस्तको- परि उदिते सति मीनलग्नस्य २ । ३६ षट्- त्रिंशत्पलाधिकदण्डद्वयं भवति । यथा, -- “सूर्पमूर्त्तिनि शिरोगते चतुस्तारके करिकरोरुवारिभे । अन्त्यभादमृतवाणि ! निर्गताः खेचराम्बरशशाङ्कलिप्तिकाः ॥ दं १ । ४९ । शीर्षभाजिभचतुष्टयाङ्किते विश्वभे तरुणि सूर्पकाकृतौ । भ्रूतिरस्कृतमनोजकार्मुके ! यान्ति कालतिथिलिप्तिका झषात् ॥” दं २ । ३६ ॥ इति कालिदासकृतरात्रिलग्ननिरूपणम् ॥ * ॥ भगवद्दशावतारान्तर्गतप्रथमावतारः । यथा, “शेते स चित्तशयने मम मीन कूर्म्म- कोलोऽभवन् नृहरिवामनजामदग्न्यः । योऽभूद्बभूव भरताग्रजकृष्णबुद्धः कल्की सताञ्च भविता प्रहरिष्यतेऽरीन् ॥” इति मुग्धबोधव्याकरणम् ॥ अस्य विवरणं मत्स्यशब्दे द्रष्टव्यम् ॥ * ॥ विशेषस्त्वत्र कथ्यते । “प्रकृतिर्विष्णुरूपा च पुंरूपश्च महेश्वरः । एवं प्रकृतिभेदेन भेदास्तु प्रकृतेर्दश ॥ कृष्णरूपा कालिका स्याद्रामरूपा च तारिणी । वगला कूर्म्ममूर्त्तिः स्यान्मीनो धूमावती भवेत् ॥ छिन्नमस्ता नृसिंहः स्याद्वराहश्चैव भैरवी । सुन्दरी जामदग्न्यः स्याद्बामनो भुवनेश्वरी ॥ कमला बौद्धरूपा स्यात् मातङ्गी कल्किरूपिणी । स्वयं भगवती काली कृष्णस्तु भगवान् स्वयम् ॥ स्वयञ्च भगवान् कृष्णः कालीरूपो भवेद्व्रजे ।” दुर्गा स्यात् कल्किरूपिणीति पाठान्तरम् । इति मुण्डमालातन्त्रम् ॥
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मीनः [mīnḥ], [मी-नक्]
A fish; सुप्तमीन इव ह्रदः R.1.73; मीनो नु हन्त कतमां गतिमभ्युपैतु Bv.1.17.
The twelfth sign of the zodiac (Pisces).
The first incarnation of Viṣṇu; see मत्स्यावतार. -ना A stick. -Comp. -अक्षी N. of a deity (worshipped in Madurā). -अण्डम् roe, fish-spawn. (-ण्डा) moist sugar. -आघातिन्, -घातिन्m.
a fisherman.
a crane. -आलयः the sea. -केतनः, -ध्वजः the god of love. -गन्धा an epithet of Satyavatī.-गन्धिका a pond, pool of water (v. l. गोधिका). -घातिन्m.
a crane.
a fisherman. -रङ्कः, -रङ्गः a kingfisher.
