सामग्री पर जाएँ

मुकुरः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मुकुरः, पुं, (मक + “मकुरदर्द्दुरौ ।” उणा० १ । ४१ । इत्यत्र । बाहुलकादकारस्थाने उकारः इत्युज्ज्वल- दत्तोक्तेः उरच् ।) दर्पणः । (यथा, नैषधे । ४ । ५९ । “कुरु करे गुरुमेकमयोघनं बहिरितो मुकुरञ्च कुरुष्व मे ॥”) वकुलद्रुमः । कुलालदण्डः । इति मेदिनी । रे, २०३ ॥ मल्लिकापुष्पवृक्षः । इति विश्वः ॥ (यथा, मुकुरकुसुमभृङ्गानातपत्रं ध्वजं वा दधिफलमथ नौकामन्नताम्बूलवस्त्रम् । कमलकलसशङ्खं भूषणं काञ्चनं वा भवति सकलसिद्ध्यै श्रेयसे रोगिणाञ्च ॥” इति हारीते द्बितीयस्थाने द्वितीयेऽध्याये ॥) कुलवृक्षः । इति शब्दरत्नावली ॥ कोरकः । इति हेमचन्द्रः ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मुकुरः [mukurḥ], 1 A mirror, looking-glass; गुणिनामपि निजरूप- प्रतिपत्तिः परत एव संभवति । स्वमहिमदर्शनमक्ष्णोर्मुकुरतले जायते यस्मात् Vās.; Śi.9.73; N.22.43.

A bud; see मुकुलः.

The handle of a potter's wheel.

The Bakula tree.

The Mallikā creeper.

"https://sa.wiktionary.org/w/index.php?title=मुकुरः&oldid=355034" इत्यस्माद् प्रतिप्राप्तम्