सामग्री पर जाएँ

मुकुष्टक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मुकुष्टकः, पुं, (मुकुं स्तकति प्रतिहन्ति । स्तक + अच् पृषोदरादित्वात् साधुः ।) वनमुद्गः । मुगानी इति भाषा । तत्पर्य्यायः । मयष्टकः २ । इत्यमरः । २ । ९ । १७ ॥ मुकुष्ठः ३ मयष्ठः ४ । इति श्रीधरः ॥ मपष्टकः ५ । इत्यन्ये । इति भरतः ॥ मुद्गष्टकः ६ मकुष्टकः ७ मयुष्टकः ८ । इति टीकान्तरम् ॥ (तथास्य विषयः ॥ “विदलान्नानि वक्ष्यामि शृणु पुत्त्र ! यथा- क्रमम् । यवगोधूमचणका माषामुद्गाढकी तथा ॥ मुकुष्टकाः कुलत्थाश्च मसूरास्त्रिपुटास्तथा । निष्पावकाः कलायाद्या विदलान्नानि कीर्त्तयेत् ॥ इति हारीते प्रथमे स्थाने दशमेऽध्याये ॥ मुद्गान् मसूरांश्चणकान् कुलत्थान् समुकुष्ट- कान् । आहारकाले यूषार्थे ज्वरिताय प्रदापयेत् ॥” इति वैद्यकचक्रपाणिसंग्रहे ज्वराधिकारे ॥)

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मुकुष्टक¦ पु॰ मुकुर्नलोत्सर्गस्तं स्तकति स्तक--अच् पृ॰ षत्वम्। वनमुद्गे अमरः पृषो॰ मुकुष्ठक तत्रार्थे।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मुकुष्टक¦ n. (-कं) A sort of kidney-bean, (Phaseolus lobatus.) Also मकुष्टक, etc.

"https://sa.wiktionary.org/w/index.php?title=मुकुष्टक&oldid=355139" इत्यस्माद् प्रतिप्राप्तम्