सामग्री पर जाएँ

मुक्ताकलापः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मुक्ताकलापः, पुं, (मुक्तानां कलापः समूहोऽत्र ।) मुक्ताहारः । यथा, -- “हारो मुक्तातः प्रालम्बस्रक्कलापावलीलताः ।” इति हेमचन्द्रः । ३ । ३२२ ॥ (यथा, कुमारसम्भवे । १ । ४२ । “कण्ठस्य तस्याः स्तनबन्धुरस्य मुक्ताकलापस्य च निस्तलस्य अन्योन्यशोभाजननाद्बभूव साधारणो भूषणभूष्यभावः ॥”)

"https://sa.wiktionary.org/w/index.php?title=मुक्ताकलापः&oldid=158179" इत्यस्माद् प्रतिप्राप्तम्