मुखरः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मुखरः, त्रि, (मुखं अस्यास्तीति । मुख + उष- सुषिमुष्कमधो रः ।” ५ । २ । १०७ । इत्यत्र “रप्रकरणे खमुखकुञ्जेभ्य उपसंख्यानम् ।” इति काशिकोक्त्या सर्व्वस्मिन् वक्तव्ये रः । “निन्दितं मुखमस्यास्तीति रः ।” इत्यमरटीका ।) अप्रिय- वादी । तत्पर्य्यायः । दुर्मुखः २ अबद्धमुखः ३ । इत्यमरः । ३ । १ । ३६ ॥ (यथा, -- “एका भार्य्या प्रकृतिमुखरा चञ्चला च द्वितीया ।” इत्युद्भटः ॥ शब्दायमानः । यथा, मृच्छकटिकनाटके १ अङ्के । “त्वां सूचयिष्यति तु माल्यसमुद्भवोऽयं गन्धश्च भीरु ! मुखराणि च नूपुराणि ॥” अग्रयायी । यथा, हितोपदेशे । “यदि कार्य्ये विपत्तिः स्यान् मुखरस्तत्र हन्यते ॥”)
मुखरः, पुं, (मुख + रः ।) काकः । शङ्खः । इति राजनिर्घण्टः ॥
