मुखरोग
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मुखरोगः, पुं, (मुखस्य रोगः ।) वक्त्रामयः । (यथा, मार्कण्डेये । १५ । ३५ । “पङ्ग्वन्धो वधिरः कुष्ठी यक्ष्मणा च प्रपीडितः । मुखरोगाक्षिरोगैश्च गुदरोगैश्च बाध्यते ॥”) तत्र मुखस्य स्वरूपमाह । “ओष्ठौ च दन्तमूलानि दन्ता जिह्वा च तालु च । गलो गलादि सकलं सप्ताङ्गं मुखमुच्यते ॥” अथ मुखरोगाणां संख्यामाह । ‘स्युरष्टावोष्ठयोर्दन्तमूले तु दश षट् तथा । दन्तेष्वष्टौ रसज्ञायां पञ्च स्युर्नव तालुनि ॥ कण्ठे त्वष्टादश प्रोक्तास्त्रयः सर्व्वसराः स्मृताः । एवं मुखामयाः सर्व्वे सप्तषष्टिर्मता बुधैः ॥’ मुखरोगाणां निदानान्याह । ‘अनूपपिशितक्षीरदधिमाषादिसेवनात् । मुखमध्ये गदान् कुर्य्युः क्रुद्धा दोषाः कफोत्तराः ॥’ तत्रौष्ठरोगाः । तेषां निदानपूर्ब्बिकां संख्याञ्चाह । ‘पृथग्दोषैः समस्तैश्च रक्तजो मांसजस्तथा । मेदोजश्चाभिघातोत्थ एवमष्टौष्ठजा गदाः ॥’ तत्र वातिकस्य लक्षणमाह । ‘कर्क्कशौ परुषौ स्तब्धौ कृष्णौ तीव्रसुगन्धिनौ । दाल्येते परिपाट्येते ओष्ठौ मारुतकोपतः ॥’ परुषौ रूक्षौ । दाल्येते विदार्य्येते । परिपाट्येते किञ्चिद्बिदीर्णत्वचौ क्रियेते ॥ पैत्तिकमाह । ‘चीयेते पिडकाभिस्तु सरुजाभिः समन्ततः । सदाहपाकपिडकौ पीताभासौ च पित्ततः ॥’ श्लैष्मिकमाह । ‘सवर्णाभिस्तु चीयेते पिडकाभिरवेदनौ । कण्डूमन्तौ कफादोष्ठौ पिच्छिलौ शीतलौ गुरू ॥’ सान्निपातिकमाह । ‘सकृत् कृष्णौ सकृत् पीतौ सकृत् श्वेतौ तथैव च । सन्निपातेन विज्ञेयावनेकपिडकान्वितौ ॥’ लावणं मधुराः स्निग्धाः शीताश्वैव रसा हिताः । मुखपाके शिराकर्म्म शिरःकायविरेचनम् । मूत्रतैलघृतक्षौद्रक्षीरैश्च कवलग्रहः ॥ सक्षौद्रास्त्रिफलापाठा मृद्वीकाजातिपल्लवाः । कषायतिक्तकाः शीताः क्वाथाश्च मुखधावनाः । तुलां खदिरसारस्य द्विगुणामरिमेदसः ॥ प्रक्षाल्य जर्ज्जरीकृत्य चतुर्द्द्रोणेऽम्भसः पचेत् । द्रोणशेषं कषायन्तं पूत्वा भूयः पचेच्छनैः ॥ ततस्तस्मिन् घनीभूते चूर्णीकृत्थाक्षभागिकम् । चन्दनं पद्मकोशीरं मञ्जिष्ठां धातकीं घनम् ॥ प्रपुण्डरीकं यष्ट्याह्वत्वगेलापत्रकेशरम् । लाक्षां रसाञ्जनं मांसीं त्रिफलां लोध्रबालकम् ॥ रजन्यौ फलिनीमेलां समङ्गां कट्फलं वचाम् । यवामगुरुपत्तङ्गगैरिकाञ्जनमावपेत् ॥ लवङ्गनखकक्कोलजातिकोशान् पलोन्मितान् । कर्पूरकुडवञ्चापि पुनःशीतेऽवतारिते ॥ ततस्तु गुलिकाः कार्य्याः शुष्काश्चास्येन धार- येत् । तैलञ्चानेन कल्केन कषायेण च साधयेत् ॥ दन्तानाञ्चलनभ्रंशशौषिर्य्यक्रिमिरोगनुत् । मुखपाकास्यदौर्गन्ध्यजाड्यारोचकनाशनम् ॥ स्रावोपलेपपैच्छिल्यवैखर्य्यगलरोगनुत् । दन्तास्यगलरोगेषु सर्व्वेषां तत्परायणम् ॥’ इति खदिरादिगुटिकातैलञ्च ॥ इति मुख- रोगचिकित्सा ॥ इति चरके चिकित्सास्थाने २६ अध्यायः ॥)
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मुखरोग¦ पु॰ सप्ताङ्गस्य मुखस्य रोगः। सप्ताङ्गमुखस्यरोगभेदे तन्निदानादि यथा
“ओष्ठौ च दन्तमूलानि दन्ता जिह्वा च तालु च। गलोगलादि सकलं सप्ताङ्गं मुखमुच्यते”। अथ मुखरोगाणांसंङ्ख्यामाह
“स्युरष्टावोष्ठयोर्दन्तमूले तु दश षट् तथा। दन्तेष्वष्टौ रसज्ञायां पञ्च स्युर्नव तालुनि। कण्ठे त्वष्टा-दश प्रोक्तास्त्रयः सर्वसराः स्मृताः। एवं मुखामयाःसर्वे सप्तषष्टिर्मता बुधैः” मुखरोगाणां निदानान्याह
“अनूपपिशितक्षीरदधिमाषादिसेवनात्। मुखमध्ये गदान्कुर्युः क्रुद्धा दोषाः कफोत्तराः” भावप्र॰।
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मुखरोग/ मुख--रोग m. = -रुज्(See. ) Sus3r. VarBr2S. Ma1rkP.
