सामग्री पर जाएँ

मुखवाद्यम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मुखवाद्यम्, क्ली, (मुखेन वाद्यम् ।) वक्रनालवाद्यम् । वा~क इति भाषा । इति त्रिकाण्डशेषः ॥ मुखस्य मुखेन च वाद्यञ्च । शिवपूजान्ते वम् इति शब्देन गालवाद्यम् । यथा, -- “लिङ्गं निर्म्माय विधिवत् विधिवत् पूजयेच्च तम् । षडक्षरं जपित्वा वै मुखवाद्यं शुचिस्मिते ! ॥” इति लिङ्गार्च्चनतन्त्रे १५ पटलः ॥ अपि च । “मुखवाद्यं सनृर्त्य हि कृत्वा तु परमेश्वरि ! । मातृकामन्त्रसहितं मुखवाद्यं सुदुर्ल्लभम् ॥ अकारादिक्षकारान्तमनुलोमविलोमतः । उच्चार्य्य परमेशानि ! मुखवाद्यं शुचिस्मिते ! ॥ सबिन्दुं वर्णमुच्चार्य्य पञ्चाशन्मातृकां प्रिये ! । अनुलोमविलोमेन सर्व्वेण च वरानने ! ॥ अनेनैव विधानेन मुखवाद्यं करोति यः । स सिद्धः सगणः सोऽपि स शिवो नात्र संशयः । मृत्युञ्जयोऽहं देवेशि ! मुखवाद्यप्रसादतः ॥ यस्मिन् काले महेशानि ! असुरो बलवान् भवेत् । तस्मिन् काले महेशानि ! मुखवाद्यं करोम्यहम् ॥ तत् श्रुत्वा परमेशानि ! असुरा राक्षसाश्च ये । पलायन्ते महेशानि ! तत्श्रुत्वा परमेश्वरि ! ॥ ये नरा भुवि तिष्ठन्ति मुखवाद्यं विना प्रिये ! । स सर्व्वयातनाभोगी अन्ते कुम्भीरतां व्रजेत् ॥” इति च लिङ्गार्च्चनतन्त्रे ८ पटलः ॥

"https://sa.wiktionary.org/w/index.php?title=मुखवाद्यम्&oldid=158249" इत्यस्माद् प्रतिप्राप्तम्