सामग्री पर जाएँ

मुखाग्निः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मुखाग्निः, पुं, (मुखं मुख्योऽग्निः ।) दावाग्निः । यथा, -- “हेमकेलिर्द्वयोश्चाथ मृदाकुः स्याद्दवानलः । मुखोल्का भूतसश्चारी मुखाग्निर्भरघस्मरः ॥” इति शब्दमाला ॥ शवमुखे दन्तवह्निः । इति लोके । शास्त्रे तु शिरःस्थाने । यथा, -- “देवाश्चाग्निमुखाः सर्व्वे गृहीत्वा तु हुता- शनम् । गृहीत्वा पाणिना चैव मन्त्रमेतदुदीरयेत् ॥ कृत्वा तु दुष्कृतं कर्म्म जानता वाप्यजानता । मृत्युकालवशं प्राप्य नरं पञ्चत्वमागतम् ॥ धर्म्माधर्म्मसमायुक्तं लोभमोहसमावृतम् । दहेयं सर्व्वगात्राणि दिव्यान् लोकान् स गच्छतु ॥ एवमुक्त्वा ततः शीघ्रं कृत्वा चैव प्रदक्षिणम् । ज्वलमानं तथा वह्निं शिरः स्थाने प्रदापयेत् ॥ चातुर्व्वर्णेषु संस्थानमेवं भवति पुत्त्रिके ! ।” इति शुद्धितत्त्वम् ॥

"https://sa.wiktionary.org/w/index.php?title=मुखाग्निः&oldid=158274" इत्यस्माद् प्रतिप्राप्तम्