मुख्यः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मुख्यः, पुं, प्रथमः कल्पः । इत्यमरः । २ । ७ । ४० ॥ यागादिषु शास्त्रोक्तः प्रथमः कल्पो मुख्यः स्यात् । यथा, ब्रीहिभिर्यजेतेत्यादिना उत्कृष्ट- त्वात् मुखमिव मुख्यः विकारसंघेत्यादिना इवार्थे यः । इति तट्टीकायां भरतः ॥
मुख्यः, त्रि, श्रेष्ठः । इत्यमरः । ३ । १ । ५७ ॥ (तथास्य पर्य्यायः । “प्रधानमुत्तमं रम्यं श्रेष्ठं मुख्यमनुत्तमम् । वरं वरेण्यं प्रमुखं परार्द्धं प्रवरन्तथा ॥” इति वैद्यकरत्नमालायाम् ॥ यथा, भागवते । ४ । २५ । ४९ । “मुख्यानामपुरस्ताद्द्वास्तयापणबहूदनौ ॥”)
