सामग्री पर जाएँ

मुग्धा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मुग्धा, स्त्री, (मुग्ध + टाप् ।) नायिकाविशेषः । (सा च नायिका स्वीयापरकीयाभेदेन द्विविधा ।) तत्र स्वीयापि त्रिविधा । मुग्धा मध्या प्रगल्भा च । तत्राङ्कुरितयौवना मुग्धा । सा च ज्ञातयौवना अज्ञातयौवना च । सैव क्रमशो लज्जाभय- पराधीनरतिर्नवोढा । सैव जातप्रश्रया विश्रब्ध- नवोढा । अस्याश्चेष्टा क्रिया मनोहरा । कोपे मार्द्दवं नवविभूषणे समीहा च ॥ मुग्धा यथा । “आज्ञप्तं किल कामदेवधरणीपालेन काले शुभे वस्तुं वास्तुविधिं विधास्यति तनौ तारुण्य- मेणीदृशः । दृष्ट्या खञ्जनचातुरी मुखरुचा सौधाकरी माधुरी वाचा किञ्च सुधासमुद्रलहरी लाषण्यमाम- न्त्र्यते ॥” * ॥ अज्ञातयौवना यथा, -- “नीरात्तीरमुपागता श्रवणयोः सीम्नि स्फुर- न्नेत्रयोः श्रोत्रे लग्नमिदं किमुत्पलमिति ज्ञातुं करं- न्यस्यति । शैबालाङ्कुरशङ्कया शशिमुखी रोमावलीं प्रोञ्छति श्रान्तास्माति मुहुः सखीमविदितश्रोणीभरा पृच्छति ॥” ज्ञातयौवना यथा, -- “स्वयम्भूः शम्भुरम्भोजलोचने त्वत्पयोधरः । नखेन कस्य धन्यस्य चन्द्रचूडो भविष्यति ॥” नवोढा यथा, -- “हस्ते धृतापि शयने विनिवेशितापि क्रोडे कृतापि यतते बहिरेव गन्तुम् । जानीमहे नवबधूरथ तस्य वश्या यः पारदं स्थिरयितुं क्षमते करेण ॥” द्वितीया यथा, -- “बलान्नीता पार्श्वं मुखमनुमुखं नैव कुरुते धुनाना मूर्द्धानं क्षिपति वदनं चुम्बनविधौ । हृदि न्यस्तं हस्तं क्षिपति गमनारोपितमना नवोढा वोढारं रमयति च सन्तापयति च ॥” विश्रब्धनवोढा यथा, -- “दरमुकुलितनेत्रपालिनीवी- नियमितबाहुकृतोरुयुग्मबन्धम् । करकलितकुचस्थलं नवोढा स्वपिति समीपमुपेत्य कस्य यूनः ॥” इति रसमञ्जरी ॥

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मुग्धा¦ f. (-ग्धा) A girl attractive by her artlessness, (in rhetoric.)

"https://sa.wiktionary.org/w/index.php?title=मुग्धा&oldid=503549" इत्यस्माद् प्रतिप्राप्तम्