मुचुकुन्दः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मुचुकुन्दः, पुं, (मुच् + बाहुलकात् कुः । मुचुः कुन्द इवेति । राजदन्तादित्वात् पूर्ब्बनिपातः ।) पुष्पवृक्षविशेषः । मेकचन्द इति हिन्दी भाषा । (यथा, राजेन्द्रकर्णपूरे । १० । “आनन्दं मुचुकुन्दकन्दलि ! भज स्वस्थासि वासन्तिके ! ।”) तत्पर्य्यायः । छत्रवृक्षः २ चित्रकः ३ प्रति- विष्णुकः ४ । इति भावप्रकाशः ॥ बहुपुत्त्रः ५ सुदलः ६ हरिवल्लभः ७ सुपुष्पः ८ अर्घ्यार्हः ९ लक्षणकः १० रक्तप्रस्रवः ११ । अस्य गुणाः । कटुत्वम् । तिक्तत्वम् । कफवातनाशित्वम् । कण्ठकरत्वम् । त्वग्दोषशोफशमनत्वम् । जीर्ण- ज्वरविनाशनत्वञ्च । इति राजनिर्घण्टः ॥ शिरःपीडापित्तास्रविषनाशित्वम् । इति भाव- प्रकाशः ॥ * ॥ मान्धातृराजपुत्त्रः । इति श्रीभागवतम् । ९ । ७ । ३८ । (यथा च देवीभागवते । ७ । १० । ४ । “तस्यामुत्पादयामास मान्धाता द्बौ सुतौ नृप ! । पुरुकुत्सं सुविख्यातं मुचुकुन्दं तथापरम् ॥”)
