मुञ्जः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मुञ्जः, पुं, (मुञ्ज्यते मृज्यते अनेन । मुञ्ज + करणे अच् ।) तृणविशेषः । मु~ज इति भाषा ॥ (यथा, पञ्चदश्याम् । १ । ४२ । “यथा मुञ्जादीषिकैवमात्मा युक्त्या समुद्धृतः । शरीरत्रितयाद्धीरैः परं ब्रह्मैव जायते ॥”) तत्पर्य्यायः । मौञ्जीतृणाख्यः २ ब्राह्मण्यः ३ तेजनाह्वयः ४ वाणीरकः ५ मुञ्जनकः ६ शीरी ७ दर्भाह्वयः ८ दूरमूलः ९ दृढतृणः १० दृढमूलः ११ बहुप्रजः १२ रञ्जनः १३ शत्रु- भङ्गः १४ । अस्य गुणाः । मधुरत्वम् । शीत- त्वम् । कफपित्तजदोषनाशित्वम् । ग्रहरक्षासु दीक्षासु च पावनत्वम् । भूतनाशित्वञ्च । इति राजनिर्घण्टः ॥ अपि च । “मुञ्जो मुञ्जातको बाणः स्थूलदर्भः सुमेधसः । मुञ्जद्बयन्तु मधुरं तुवरं शिशिरं तथा ॥ दाहतृष्णाविसर्पास्रमूत्रवस्त्यक्षिरोगजित् । दोषत्रयहरं वृष्यं मेखलासूपयुज्यते ॥” इति भावप्रकाशः ॥ शरः । इति रत्नमाला । उपनयनकाले मुञ्ज- मेखलाधारणविधिर्यथा । अथैनं माणवक- माचार्य्यस्त्रिःप्रदक्षिणं त्रिवृतं मुञ्जमेखलां परि- धापयन् मन्त्रद्वयं वाचयति । इति भवदेव- भट्टः ॥
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मुञ्जः [muñjḥ], 1 A sort of rush or grass (of which the girdle of a Brāhmaṇa should be made); Ms.2.43; मुञ्जाटव्यां भ्रष्टमार्गं क्रन्दमानं स्वगोधनम् Bhāg.1.19.5; मुञ्जद्वयं तु मधुरं तुवरं शिशिरं तथा । दाहतृष्णाविसर्पास्रमूत्रवस्त्यक्षि- रोगजित् । दोषत्रयहरं वृष्यं मेखलासूपयुज्यते ॥ Bhāva. P.
The sacred cord or girdle itself.
N. of a king of Dhārā (said to be the uncle of the celebrated Bhoja).
Comp. केशः an epithet of Śiva.
of Viṣṇu.-केशिन् m. an epithet of Viṣṇu. -बन्धनम् investiture with the sacred thread (or girdle). -मेखलिन् m.
N. of Śiva.
of Viṣṇu. -वासस् m. an epithet of Śiva.
