मुड
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मुड इ छिदि । मर्द्दे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-सक०-सेट् ।) पञ्चमस्वरी । इ मुण्ड्यते । छेद इह लोमच्छेद एव । मुण्डति मुण्डं नापितः । लोमरहितं करोतीत्यर्थः । इति गुर्गादासः ॥
मुड इ ङ मग्ने । इति कविकल्पद्रुमः ॥ (भ्वा०- आत्म०-अक०-सेट् ।) पवर्गशेषादिः । पञ्चम- स्वरी । मग्नमिति मज्जधातोः क्ते रूपं मज्जन- मित्यर्थः । इ मुण्ड्यते । ङ मुण्डते प्रस्तरो जले । चतुर्भुजस्तु मार्ज्जन इति पठित्वा मार्ज्जनं शुद्धिरिति व्याख्याय मुण्डते जलेन गात्रं लोक इत्युदाहृतवान् । इति दुर्गादासः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मुड¦ केशादिच्छेदे मर्दने च भ्वा॰ पर॰ सक॰ सेट् इदित्। मुण्डति अमुण्डीत्।
मुड¦ मज्जने भ्वा॰ आ॰ अक॰ सेट् इदित्। मुण्डते अमुण्डिष्ट।
