मुण्डनम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मुण्डनम्, क्ली, (मुण्ड + ल्युट् ।) केशच्छेदनम् । तत्पर्य्यायः । भद्रकरणम् २ वपनम् ३ परि- वापनम् ४ क्षौरम् ५ । इति हेमचन्द्रः । ३ । ५८७ ॥ (यथा, महाभारते । १२ । २३ । ४६ । “भ्रातुरस्य हितं वाक्यं शृणु धर्म्मज्ञसत्तम ! । दण्ड एव हि राजेन्द्र ! क्षत्त्रधर्म्मो न मुण्डनम् ॥”)
