मुत्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मुत्, स्त्री, (मोदतेऽनया इति । मुद् + क्विप् ।) वृद्धिनामौषधम् । इति राजनिर्घण्टः ॥
मुत्, [द्] स्त्री, (मोदनमिति । मुद् + भावे क्विप् ।) हर्षः । इत्यमरः । १ । ४ । २४ ॥ (यथा, रघु- वंशे । ३ । २५ । “उवाच धात्र्या प्रथमोदितं वचो ययौ तदीयामवलम्ब्य चाङ्गुलिम् । अभूच्च नम्रः प्रणिपातशिक्षया पितुर्मुदं तेन ततान सोऽर्भकः ॥”)
