सामग्री पर जाएँ

मुद्गः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मुद्गः, पुं, (मोदते अनेन इति । मुद् + “मुदिग्रो- र्गग्गौ ।” उणा० १ । १२७ । इति गक् ।) पक्षिविशेषः । तत्पर्य्यायः । जलवायसः २ । इति हेमचन्द्रः । ४ । २३८ ॥ शमीधान्यभेदः । मुग इति माषा । (यथा, मनुः । ९ । ३९ । “ब्रीहयः शालयो मुद्गास्तिलामाषास्तथा यवाः ।”) तत्पर्य्यायः । सूपश्रेष्ठः २ वर्णार्हः ३ रसोत्तमः ४ भुक्तिप्रदः ५ हयानन्दः ६ सुफलः ७ वाजि- भोजनः ८ । अस्य गुणाः । कषायत्वम् । मधु- रत्वम् । कफपित्तास्रजित्त्वम् । लघुत्वम् । ग्राहि- त्वम् । शीतत्वम् । पाके कटुत्वम् । चक्षुष्यत्वम् । नातिवातलत्वञ्च । तद्यूषगुणाः । पित्तश्रमार्त्ति- शमनत्वम् । लघुत्वम् । सन्तापहारित्वम् । अरोचकनाशित्वम् । तत्सैन्धवयुक्तञ्चेत् रक्त- प्रसादनत्वम् । सर्वरुजापहारित्वञ्च । इति राजनिर्घण्टः ॥ अपि च । रूक्षत्वम् । स्वादु- त्वम् । अल्पानिलत्वम् । ज्वरघ्नत्वञ्च । इति भावप्रकाशः ॥ * ॥ वनमुद्गगुणाः । “मुकुष्टः शीतलो ग्राही कफपित्तज्वरापहः ॥” तद्बिशेषा यथा, राजवल्लभे । “प्रधाना हरितास्तत्र वन्यमुद्गास्तु मुद्गवत् । कृष्णमुद्गा महामुद्गा गौरा हरितपीतकाः । श्वेता रक्ताश्च निर्द्दिष्टा लघवः पूर्ब्बपूर्ब्बवत् ॥”

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मुद्गः [mudgḥ], [मुद् गक् Uṇ.1.133]

A kind of kidneybean.

A lid, cover.

A kind of sea-bird.

A kind of weapon (मुद्गर); विरूपाक्षस्तु महता शूलमुद्गधनुष्मता Rām.6.37.14. -Comp. -पर्णी Phaseolus Trilobus (Mar. रानमूग). -मोदकः a kind of sweetmeat; Bhāva. P. -भुज्, -भोजिन् m. a horse.

"https://sa.wiktionary.org/w/index.php?title=मुद्गः&oldid=357912" इत्यस्माद् प्रतिप्राप्तम्