मुद्गपर्णी
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मुद्गपर्णी, स्त्री, (मुद्गस्येव पर्णान्यस्याः मुद्गपर्ण + जातौ ङीष् ।) वनमुद्गः । मुगानी इति भाषा । तत्पर्य्यायः । काकमुद्गा २ सहा ३ । इत्यमरः ॥ क्षुद्रसहा ४ शिम्बी ५ मार्ज्जार- गन्धिका ६ वनजा ७ रिङ्गिणी ८ ह्नस्वा ९ सूर्पपर्णी १० कुरङ्गिका ११ कोशिला १२ वनोद्भवा १३ वनमुद्गा १४ आरण्यमुद्गा १५ वन्या १६ । कुरङ्गिकास्थाने करञ्जिका इति च पाठः । अस्या गुणाः । हिमत्वम् । कास- वातरक्तक्षयपित्तदाहज्वरनाशित्वम् । चक्षुष्य- त्वम् । शुक्रवृद्धिकारित्वञ्च । इति राजनिर्घण्टः ॥ अपि च । यथा, भावप्रकाशे । “मुद्गपर्णी काकपर्णी सूर्पपर्ण्यल्पपर्णिका । काकमुद्गा च सा प्रोक्ता तथा मार्ज्जारगन्धिका ॥ मुद्गपर्णी हिमा रूक्षा तिक्ता स्वादुश्च शुक्रला । चक्षुष्या क्षयशोथघ्नी ग्राहिणी ज्वरदाहनुत् । दोषत्रयहरी लघ्वी ग्रहण्यर्शोऽतिसारहृत् ॥”
अमरकोशः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मुद्गपर्णी स्त्री।
काकमुद्गा
समानार्थक:मुद्गपर्णी,काकमुद्गा,सहा
2।4।113।2।2
कदली वारणबुसा रम्भा मोचांशुमत्फला। काष्ठीला मुद्गपर्णी तु काकमुद्गा सहेत्यपि॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मुद्गपर्णी¦ f. (-र्णी) A sort of kidney-bean, (Phaseolus trilobus.) E. मुद्ग P. mungo, पर्ण a leaf, ङीष् aff. “मुगानी |”
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मुद्गपर्णी/ मुद्ग--पर्णी f. Phaseolus Trilobus Bhpr.