मुद्गार्द्रवटः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मुद्गार्द्रवटः, पुं, (मुद्गेनार्द्रः वटः ।) वटक- विशेषः । आदावडा इति भाषा । यथा, -- “मुद्गपिष्टीविरचितान् वटकांस्तैलपाचितान् । हस्तेन चूर्णयेत् सम्यक् तस्मिंश्चूर्णे विनिक्षिपेत् ॥ भृष्टं हिङ्ग्वार्द्रकं सूक्ष्मं मरिचं जीरकं तथा । निम्बूरसं यवानीञ्च युक्त्या सर्व्वं विमिश्रयेत् ॥ मुद्गपिष्टीं पचेत् सम्यक् स्थाल्यामङ्गारकोपरि । तस्यास्तु गोलकं कुर्य्यात्तन्मध्ये पूरणं क्षिपेत् ॥ तैले तान् गोलकान् पक्त्वा क्वथितायां निम- ज्जयेत् । गोलकाः पाचकैः प्रोक्तास्ते त्वार्द्रकवटा अपि ॥” अस्य गुणाः । यथा, भावप्रकाशे । “मुद्गार्द्रकवटा रुच्या लघवो बलकारक्राः । दीपनास्तर्पणाः पथ्यास्त्रिदोषेषु प्रपूजिताः ॥”
