मुद्रितम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मुद्रितम्, त्रि, (मुद्रा मुद्रणं अस्य जातेति । मुद्रा इतच् ।) अप्रफुल्लम् । मोदा इति भाषा । तत्पर्य्यायः । सङ्कुचितम् २ निद्राणं ३ मीलि- तम् ४ । इति हेमचन्द्रः ॥ मुद्राङ्कितञ्च ॥ (परि- त्यक्तम् । यथा, नैषधचरिते । ५ । १२ । “मुद्रितान्यजनसंकथनः सन् नारदं बलिरिपुः समवादीत् ।” “मुद्रितं परित्यक्तम् ।” इति तट्टीका ॥)
