सामग्री पर जाएँ

मुनिः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मुनिः, पुं, मनुते जानाति यः । (इति मन् + “मनेरुश्च ।” उणा० ४ । १२२ । इति इन् + अत उच्च ।) मौनव्रती । इत्यन्ये । इति भरतः ॥ तत्पर्य्यायः । वाचंयमः २ । इत्यमरः । २ । ७ । ४२ । मौनी ३ व्रती ४ ऋषिः ५ शापास्त्रः ६ सत्यवाक् ७ । इति जटाधरः ॥ (यथा, नैषधे । १ । १३३ । “फलेन मूलेन च वारिभूरुहां मुनेरिवेत्थं मम यस्य वृत्तयः ॥”) लस्य लक्षणं यथा, -- “दुःखेष्वनुद्बिग्नमनाः सुखेषु विगतस्पृहः । वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते ॥” इति श्रीभगवद्गीता ॥ * ॥ तस्य धर्म्मो यथा, -- उष्णात् परे पावनकः पावनादन्धकारकः । अन्धकारकदेशात्तु मुनिदेशस्तथापरः ॥” (द्युतिमतः पुत्त्राणामन्यतमः । यथा, मार्कण्डेये । ५३ । २२ । “तथा द्युतिमतः सप्तपुत्त्रास्तांश्च निबोध मे । मुनिश्च दुन्दुभिश्चैव सप्तमः परिकीर्त्तितः ॥” कुरुपुत्त्रभेदः । यथा, महाभारते । १ । ९४ । ४९ ॥ “अविक्षितमभिष्वस्तं तथा चैत्ररथं मुनिम् ॥”)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मुनिः [muniḥ], [मन्-इन् उच्च Uṇ.4.122]

A sage, a holy man, saint, devotee, an ascetic; मुनीनामप्यहं व्यासः Bg.1. 37; दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः । वीतरागभयक्रोधः स्थित- धीर्मुनिरुच्यते ॥ 2.56; पुण्यः शब्दो मुनिरिति मुहुः केवलं राजपूर्वः Ś.2.15; R.1.8;3.49.

N. of the sage Agastya.

Of Vyāsa; Mb.6.119.4.

Of Buddha.

of Pāṇini.

N. of several plants (पियालु, पराशर and दमनक).

The internal conscience (according to Kull. on Ms.8.91 'the Supreme Spirit').

The mango-tree.

The number 'seven'. -pl. The seven sages. -Comp. -अन्नम् (pl.) the food of ascetics, (कन्दफलादि); देशे काले च संप्राप्ते मुन्यन्नं हरिदैवतम् Bhāg.7. 15.5.

इन्द्रः 'the lord of the sages', a great sage.

an epithet of Śākyamuni.

of Bharata.

of Śiva.

ईशः, ईश्वरः a great sage.

an epithet of Viṣṇu.

of Buddha. -च्छदः Alstonia Scholaris (Mar. सातवीण). -त्रयम् 'the triad of sages', i. e. Pāṇini, Kātyāyana, and Patañjali (who are considered to be inspired saints); मुनित्रयं नमस्कृत्य, or त्रिमुनि व्याकरणम् Sk.-दारकः, -कुमारः a young sage. -द्रुमः the Śyonāka tree.-धान्यम् a kind of wild grain (Mar. देवभात). -परंपरा uninterrupted tradition. -पित्तलम् copper. -पुङ्गवः a great or eminent sage.

पुत्रकः a wagtail.

thedamanaka tree. -प्रियः Panicum Miliaceum (Mar. नीवार, काङ्ग).

भेषजम् the fruit of the yellow myrobalan.

fasting. -वृत्ति a. leading an ascetic life; वार्द्धके मुनि- वृत्तीनाम् R.1.8. -व्रतम् an ascetic vow; keeping silence; मुनिव्रतैस्त्वामतिमात्रकर्शिताम् Ku.5.48; मुनिव्रतमथ त्यक्त्वा निश्चक्रामाम्बिकागृहात् Bhāg.1.53.51.

"https://sa.wiktionary.org/w/index.php?title=मुनिः&oldid=358307" इत्यस्माद् प्रतिप्राप्तम्