मुनिद्रुमः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मुनिद्रुमः, पुं, (मुनेरगस्त्यस्य प्रियः द्रुमः । इति मध्यपदलोपी समासः ।) श्योनाकवृक्षः । इति रत्नमाला ॥ श्योनाकप्रभेदः । वकवृक्षः । इति राजनिर्घण्टः ॥ (यथा, नैषधचरिते । १ । ९६ । “मुनिद्रुमः कोरकितः शितिद्युति- र्वनेऽमुनाऽमन्यत सिंहिकामुतः ॥” “मुनिद्रुमः वकवृक्षः ।” इति तट्टीका ॥ अस्य पर्य्यायो यथा, -- “अथागस्त्यो वङ्गसेनो मुनिपुष्पो मुनिद्रुमः ।” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥ “श्योनाको भूतपुष्पश्च पूतिवृक्षो मुनिद्रुमः । दीर्घवृन्तश्च कट्वङ्गो भल्लुकष्टुण्टकोऽरुणुः ॥” इति वैद्यकरत्नमालायाञ्च ॥)
