मुनिपुष्पम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मुनिपुष्पम्, क्ली, (मुनिद्रुम इति । “ठाजा दावूर्द्ध्वं द्वितीयादचः ।” ५ । ३ । ८३ । इत्यत्र “विनापि प्रत्ययेन पूर्ब्बोत्तरपदयोर्विभाषालोपो वक्तव्यः ।” इति काशिकोक्तेः द्रुम इत्यस्य लोपे मुनिः तस्य पुष्पम् ।) वकपुष्पम् ॥ (यथा, तिथितत्त्वे । “विहाय सर्व्वपुष्पाणि मुनिपुष्पेण केशवम् । कार्त्तिके योऽर्च्चयेद्भक्त्या वाजिमेधफलं लभेत् ॥” वकवृक्षे, पुं, । तत्पर्य्यायो यथा, -- “अथागस्त्यो वङ्गसेनो मुनिपुष्पो मुनिद्रुमः ।” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
