मुमुक्षुः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मुमुक्षुः, पुं, (मोक्तुमिच्छतीति । मुच् + सन् + उः ।) मुक्तिमिच्छः ॥ (यथा, श्रीमद्भगवद्गीतायाम् । ४ । १५ । “एवं ज्ञात्वा कृतं कर्म्म पूर्ब्बैरपि मुमुक्षुभिः । कुरु कर्म्मैव तस्मात्त्वं पूर्ब्बैः पूर्ब्बतरं कृतम् ॥”) तत्पर्य्यायः । श्रमणः २ यतिः ३ वाचंयमः ४ व्रती ५ साधुः ६ अनगारः ७ ऋषि, ८ मुनिः ९ निर्ग्रन्थः १० भिक्षुः ११ । इति हेमचन्द्रः १ । ७५ ॥ अथ मुमुक्षुकृत्यम् । मनुः । “इह चामुत्र वा काम्यं प्रवृत्तं कर्म्म कीर्त्त्यते । निष्कामं ज्ञानपूर्ब्बन्तु निवृत्तमुपदिश्यते ॥ शीतोष्णवातवर्षासुखदुःखसंस्पर्शसहत्वं शोक- दैन्यद्वेषमदमानलोभरागेर्ष्याभयक्रोधादिभिरस- ञ्चलनं अहङ्कारादिषूपसर्गसंज्ञा लोकपुरुषयोः स्वर्गादिसामान्यावेक्षणं कार्य्यकालात्ययभयं योगारम्भे सततमनिर्व्वेदः सत्त्वोत्साहोऽपवर्गाय धीधृतिस्मृतिबलाधानं नियमनमिन्द्रियाणां चेतसि चेतस आत्मन्यात्मनश्च धातुभेदेन शरी- रावयवसंख्यानं अभीक्ष्णं सर्व्वं कारणवद्दुःख- मस्वमनित्यमित्यभ्युपगमः । सर्व्वप्रवृत्तिषु दुःख- संज्ञा सर्व्वसंन्यासे सुखमित्यभिनिवेशः एष- मार्गोऽपवर्गाय अतोऽन्यथा बध्यते इत्युदयनानि व्याख्यातानि ॥ इति चरके शारीरस्थाने पञ्चमे- ऽध्याये ॥)
