मुरारिः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मुरारिः, पुं, (पुरस्यारिः ।) श्रीकृष्णः । अस्य व्युत्पत्तिर्यथा, -- “मुरः क्लेशे च सन्तापे कर्म्मभोगे च कर्म्मिणाम् । दैत्यभेदेऽप्यरिस्तेषां मुरारिस्तेन कीर्त्तितः ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ११० अध्यायः ॥ अस्य स्वरूपं यथा, -- श्रीनारद उवाच । “कोऽसौ मुरारिर्देवर्षे ! देवो यक्षो नु किं नरः । दैत्यो वा राक्षसो वापि पार्थिवो वा तदुच्यताम् ॥” पुलस्त्य उवाव । “योऽसौ रजःसत्त्वमायागुणवांश्च तमोमयः । निर्गणः सर्व्वगो व्यापी मुरारिर्म्मधुसूदनः ॥”
