मुष्टिः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मुष्टिः, पुं, स्त्री, (मुष् + क्तिच् ।) पलपरिमाणम् । चारि तोला इति भाषा । (वैद्यके आठतोला इति प्रसिद्धिः । “स्यात् कर्षाभ्यामर्द्धपलं शुक्तिरष्टमिका तथा । शुक्तिभ्याञ्च पलं ज्ञेयं मुष्टिराम्रञ्चतुर्थिका ॥” इति वैद्यकशार्ङ्गधरे पूर्ब्बखण्डे प्रथमेऽध्याये ॥ ‘पलार्द्धं शुक्तिमिच्छन्ति तथाष्टमाषकास्त्विति ।’ पलं विल्वञ्च मुष्टिः स्यात् -- ॥” इति गारुडे अष्टाधिकद्बिशततमेऽध्याये ।) बद्धपाणिः । मुटा इति भाषा । तत्पर्य्यायः । सम्पिण्डिताङ्गुलिपाणिः २ मुस्तुः ३ मुचुटी ४ । इति हेमचन्द्रः । ३ । २६१ ॥ त्सरुः । इति मेदिनी । टे, २५ ॥ खड्गेर मुट् इति भाषा । (यथा, महाभारते । १ । १९ । १७ । “परिघैरायसैस्तीक्ष्णैः सन्निकर्षे च मुष्टिभिः । निघ्नतां समरेऽन्योन्यं शब्दो दिवमिवास्पृशत् ॥”) कुञ्च्यष्टभागः । छटाक इति भाषा । यथा, -- “अष्टमुष्टिर्भवेत् कुञ्चिः कुञ्चयोऽष्टौ च पुष्कलः ।” इति प्रायश्चित्ततत्त्वम् ॥ (मुष् + क्तिन् ।) मोषणम् । इति मुषधात्वर्थ- दर्शनात् । प्रहारविशेषः । किल इति भाषा । यथा, मार्कण्डेयपुराणे । ९० । १५ -- १६ । “चिच्छेदापततस्तस्य मुद्गरं निशितैः शरैः । तथापि सोऽभ्यधावत्तां मुष्टिमुद्यम्य वेगवान् ॥ स मुष्टिं पातयामास हृदये दैत्यपुङ्गवः । देव्यास्तञ्चापि सा देवी तलेनोरस्यताडयत् ॥” पथि क्षुधार्त्तस्य तिलादीनां मुष्टिग्रहणे चौर्य्या- भावः । यथा, कौर्म्मे उपविभागे १५ अध्याये । “तिलमुद्गयवादीनां मुष्टिर्ग्राह्या पथि स्थितैः । क्षुधार्त्तैर्नान्यथा विप्र ! विधिविद्भिरिति स्थितिः ॥” (मुष् स्तेये + अधिकरणे क्तिन् । शस्यगोपन- कालः । यथा, महाभारते । २ । ५ । ६५ । “कच्चिल्लवञ्च मुष्टिञ्च परराष्ट्रे परन्तप ! । अविहाय महाराज ! निहंसि समरे रिपून् ॥” “मुष्टिः शस्यानां गोपनकालः दुर्भिक्षमिति यावत् ॥” इति तट्टीकायां नीलकण्ठः ॥)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मुष्टिः [muṣṭiḥ], m., f. [मुष्-क्तिच्]
The clenched hand, fist; कर्णान्तमेत्य विभिदे निबिडो$पि मुष्टिः R.9.58;15.21; Śi.1.59.
A handful, fistful; श्यामाकमुष्टिपरिवर्धितकः Ś4.14; R.19.57; Ku.7.69; Me.7.
A handle or hilt.
A particular measure (= pala).
A measure of capacity equal to one handful.
The penis.
Stealing (only f.).
A compendium, abridgment.
A measure used in checking the account of the income and expenditure of a country; 'जनपदायव्ययशोधको मुष्टिः' Bhūṣaṇā मुष्टिमर्धमुष्टिं वा$भ्यन्तरीकृत्य कृत्स्नमायव्ययजातम् Dk. 2.8. -Comp. -करणम् clenching the fist. -ग्रहः clasping with one hand. -देशः the middle of a bow, that part of it which is grasped in the hand. -द्यूतम् a kind of game. -पातः boxing.
बन्धः clenching the fist.
a handful. -मान्द्यम् slight loosening of the bowstring. -मेय a. to be measured with the fist, to be spanned with the fingers. -युद्धम् a pugilistic encounter, boxing. -योगः the offering of handfuls (i. e. small quantities). -वधः devastation of the crop; अतो मुष्टिवधः सस्यवधो वा यदोत्पद्यते तदा$भियास्यसि Dk.2.3. -वर्चस् n. the feces compacted into a ball.
