मुष्टिबन्धः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मुष्टिबन्धः, पुं, मुष्टिबन्धनक्रिया । मुटावा~धा इति भाषा । तत्पर्य्यायः । संग्राहः २ । इत्यमरः । ३ । २ । १४ ॥ मुष्टेर्बन्धोऽङ्गुलिविन्यासो मुष्टि- बन्धः । मुष्टिना बन्धो दृढग्रहणं संग्राह इत्यपरे । मुष्ट्यामेव संग्रह इत्यन्ये । मुष्टिः स्त्रियाञ्च संग्रह इति वोपालितः । इति भरतः ॥
