सामग्री पर जाएँ

मुहूर्त्तः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मुहूर्त्तः, पुं क्ली, (हूर्च्छतीति । “अञ्जिघृसिभ्यः क्तः ।” उणा० ३ । ८९ । इत्यत्र बाहुलकात् हुर्च्छेरपि इति उज्ज्वलदत्तः । मुडागमश्च प्राक् । “राल्लोपः ।” ६ । ४ । २१ । इति सूत्रेण छस्य लोपः ।) द्वादशक्षणपरिमितकालः । इत्य- मरः । १ । १ । ११३ ॥ घटिकाद्बयम् । इति राजनिर्घण्टः ॥ (अस्य विवृतिर्यथा । तत्र लघ्वक्षरोच्चारणमात्रोऽक्षिनिमेषः । पञ्चदशाक्षि- निमेषाः काष्ठा ॥ त्रिंशत्काष्ठाः कलाः । विंशतिकलो मुहूर्त्तः कलादशभागश्च । त्रिंश- न्मुहूर्त्तमहोरात्रम् । इति सुश्रुते सूत्रस्थाने षष्ठेऽध्याये ॥) दिनपञ्चदशभागैकभागः । यथा, “प्रातःकालो महूर्त्तांस्त्रीन् सङ्गवस्तावदेव तु । मध्याह्रस्त्रिमुहूर्त्तः स्यादपराल्लस्ततः परम् ॥ सायाह्नस्त्रिमहूर्त्तः स्यात् श्राद्धं तत्र न कारयेत् । राक्षसी नाम सा वेला गर्हिता सर्व्वकर्म्मसु ॥” इति तिथ्यादितत्त्वधृतवचनम् ॥ * ॥ कर्म्मविशेषे तस्य परिमाणं यथा । ननु व्रतोप- वासस्नानादौ घटिकैकापि या भवेदित्यत्र घटिकापदं दण्डपरं महूर्त्तपरं वा स्मृत्या- चारधृतचतुर्द्दण्डात्मकारुणोदयज्ञापके चतस्रो घटिकाः प्रातररुणोदय उच्यते इत्यादौ प्रभाते घटिकायुग्मं प्रदोषे घटिकाद्बयम् । दिनवत् सर्व्वकार्य्याणि कारयेन्न विचारयेदिति हलायुध- शक्यार्थबाधज्ञानं शक्यसम्बन्धज्ञानञ्च विना पद- तात्पर्य्यज्ञानानुपदमेव पदार्थोपस्थापकत्वात् । सा च निरूढलक्षणा क्वचित्तात्पर्य्यबोधक- शास्त्रात् क्वचिच्चार्षप्रयोगतोऽनुमानादपि निर्णी यते । वस्तुतस्तु द्युनिशोः पञ्चदशांशाश्रित- स्मृत्युक्तनिरूढमुहूर्त्तपदलक्षणा विनिगमना- विरहगौरवाभ्यामेव कुण्ठिता अतोऽत्यन्तन्यून- पादोनदण्डद्वयात्मकमुहूर्त्तग्रहणं अशक्यमेव । अथात्यन्तन्यूनतया सर्व्वानुगमाय तद्ग्रहणमिति चेत् अत्यन्ताधिकतया सपाददण्डद्वयात्मक- मुहूर्त्तस्यैव कुतो न ग्रहणं स्यात् तस्मात् “प्रभाते घटिकायुग्मं प्रदोषे घटिकाद्बयम् । दिनवत् सर्व्वकार्य्याणि कारयेन्न विचारयेत् ॥” इति लघुहारीतवचनत्रियामां रजनीं प्राहु स्त्यक्वाद्यन्तचतुष्टयम् । नाडीनान्तदुभे सन्ध्ये दिवसाद्यन्तसंज्ञित इति ब्रह्मवैवर्त्तवचनयोरेक- दण्डद्वयात्मककाले घटिकापदनिरूढलक्षणासिद्धौ तया पर्य्यायद्वारा कोषोक्तरूठ्या च समञ्जसतः पार्व्वणयोग्यदण्डद्बयात्मककाल एव घठिका- पदादुपस्थाप्यते अतः सर्व्वसाधारण्येन न्यून- कालव्यवच्छेदाय सैव ग्राह्या लाघवात् । अतएव यदा चतुर्द्दशीयामं तुरीयमनुपूरये- दत्यत्र यदा यत्र दिने अमावास्यामुख्यापराह्णीय- दण्डद्वयान्यूनकालव्यापनं यथा स्यात्तथैव चतु- र्द्दशीयामं तद्युक्ततृतीययाममनुलक्षीकृत्य तत्र प्रवृत्य चतुर्थयामं पूरयेत् व्याप्नोतीत्यन्वयः । अन्यथा चतुर्द्दशमुहूर्त्ताधिकपूरणाभिधानं व्यर्थं स्यात् । एतेनैव दर्शश्राद्धेऽपि मुख्यापराह्णादरः कार्य्यः । प्रातःकालादिपञ्चधाविभागे कुत- पादिसंज्ञायाञ्च दिनमानपञ्चदशांशमुहूर्त्तस्यैव स्यैव ग्रहणम् । तद्बोधकशास्त्रसंवादात् । अत एकोदिष्टे दिनमानपञ्चदशांशमुहूर्त्तो योग्य- तया च न्यूनकालव्यवच्छेदको ग्राह्यः । कुतप रौहिणान्यतरमांत्रग्राहकयुक्तेः । एवं विशेषा- भिधानात् सुखरात्रौ दण्डमात्रं जन्माष्टम्पे- कादशीद्बादशीषु च कलाकाष्ठारूपोऽपि प्रति- ष्ठादौ तूक्तयुक्त्या । स्वयोग्यकाल एव न्यूनकाल- व्यवच्छेदको ग्राह्यः । ततश्च विशेषकालप्राप्त- कर्म्मतरकर्म्मणः प्रशस्तादिकाले स्वयोग्य- दण्डद्वयान्यूनकतिथिरेव ग्राह्येत्यनुगतविधिः सर्व्वसामञ्जस्यादिति तत्त्वम् । इति चन्द्रशेखर- वाचस्पतिकृतद्वैतनिर्णयः ॥

"https://sa.wiktionary.org/w/index.php?title=मुहूर्त्तः&oldid=158511" इत्यस्माद् प्रतिप्राप्तम्