सामग्री पर जाएँ

मूत्रकृच्छ्रम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मूत्रकृच्छ्रम्, क्ली, (मूत्रे कृच्छ्रम् । मूत्रजन्यं कृच्छ्रमिति वा ।) रोगविशेषः । तत्पर्य्यायः । मूत्ररोघः २ अश्मरी ३ कृच्छ्रम् ४ । इति राजनिर्घण्टः ॥ * ॥ अथ मूत्रकृच्छ्राधिकारः । तत्र मूत्रकृच्छ्रस्य विप्रकृष्टं निदानमाह । “व्यायामतीक्ष्णौषधरूक्षमद्य- प्रसङ्गनृत्यद्रुतपृष्ठयानात् । आनूपमत्स्याध्यशनादजीर्णात स्युर्मूत्रकृच्छ्राणि नृणां तथाष्टौ ॥” तीक्ष्णौषधं राजिकाशूरणादियुक्तम् । रूक्षेति मद्यविशेषणम् । प्रसङ्गः सततं सेवा । नृत्यं नर्त्तनम् । नित्येति द्विविधः पाठः । द्रुतपृष्ठ- यानात् अश्वादिना गमनात् । आनूपं प्रचुर- जलदेशभवं भक्ष्यम् । अष्टौ वातिकपैत्तिक- श्लैष्मिकसान्निपातिकशल्यजपुरीषजशुक्रजाश्मरी जानि । तस्य संप्राप्तिपूर्ब्बकं लक्षणमाह । “पृथङ्मलाः स्वैः कुपिता निदानैः सर्व्वेऽथवा कोपमुपेत्य वस्तौ । मूत्रस्य मार्गं परिपीडयन्ति यदा तदा मूत्रयतीह कृच्छ्रात् ॥” तेषु वातिकमाह । “तीव्रा रुजो वङ्क्षणवस्तिमेढ्रे स्वल्पं मुहुर्मूत्रयतीह वातात् ।” तीव्रा मारणात्मिका वङ्क्षणावूरुमेढ्राणामन्त- रालसन्धी ॥ * ॥ पैत्तिकमाह । “पीतं सरक्तं सरुजं सदाहं कृच्छ्रं मुहुर्मूत्रयतीह पित्तात् ।” कृच्छ्रमिति क्रियाविशेषणम् ॥ श्लैष्मिकमाह । “वस्तेः सलिङ्गस्य गुरुत्वशोथौ मूत्रं सपिच्छं कफमूत्रकृच्छ्रे ।” सपिच्छं पिच्छिलम् ॥ सान्निपातिकमाह । सर्व्वाणि रूपाणि च सन्निपातात् भवन्ति तत् कृच्छ्रतमं हि कृच्छ्रम् ॥” कृच्छ्रं मूत्रकृच्छ्रम् ॥ * ॥ शल्यजमाह । क्वाथो गोक्षुरबीजस्य यवक्षारसमन्वितः । पीतः प्रशमयत्येव कृच्छ्रं विड्धारणोत्थितम् ॥ ६ ॥ त्रिफलायाः सुपिष्टायाः कल्कं कोलसमन्वितम् । वारिणा लवणीकृत्य पिबेन्मूत्ररुजापहम् ॥” ७ ॥ कोलं वदरम् । गुडमामलकं वृष्यं श्रमघ्नं तर्पणं प्रियम् । पित्तासृग्दाहशूलघ्नं मूत्रकृच्छ्रहरं परम् ॥ ८ ॥ सपादशाणतुलितो यवक्षारः सितायुतः । भक्षितो नाशयत्येव मूत्रकृच्छ्रं न संशयः ॥ ९ ॥ द्राक्षासितोपलाकल्कः पीतः कर्षमितो नरैः । मस्तुना पलमात्रेण मूत्रकृच्छ्रं व्यपोहति ॥ १० ॥ समूलगोक्षुरक्वाथः सितामाक्षिकसंयुतः । नाशयेन्मूत्रकृच्छ्राणि तथैवोष्णसमीरणम् ॥” ११ ॥ उष्णसमीरणं उष्णवातं मूत्राघातविशेषम् । इति भावप्रकाशः ॥ (तथास्य चिकित्सा- प्रकारान्तरम् । “सुशीतलं जलं कर्षमात्रं स्यात् मूत्रकृच्छ्रहृत् । दध्यम्बुना च संमिश्रमयश्चूर्णं सुखप्रदम् ॥ मूत्रकृच्छ्रे यवक्षारचूर्णं हिङ्गुप्रयोजितम् । कुष्माण्डञ्च समादाय शर्करासहितं पिबेत् ॥ यो हि त्रिदोषसम्भूतमूत्रकृच्छ्रनिवारणः ॥” “आरग्वधफलं मूलं दुरालभा धान्यकशता- वर्य्यः । पाषाणभेदपथ्ये क्वाथोऽयं मूत्रकृच्छ्रे स्यात् ॥” इति हारीते चिकित्सितस्थाने २९ अध्याये ॥ अथात्र पथ्यानि । “अथो यथादोषमयं गणोऽपि पुरातना लोहितशालयश्च । तक्रं पयो दध्यपि गोप्रसूतं धन्वामिषं मुद्गरसाः सिता च ॥ पुराणकुष्माण्डफलं पटोलं महार्द्रकं गोक्षुरकः कुमारी । गुवाकखर्ज्जू रकनारिकेल- तालद्रुमाणाञ्च शिरांसि पथ्या ॥ तालास्थिमज्जात्रपुषं त्रुटिश्च शीतानि पानान्यशनानि चापि । प्रनीरनीरं हिमबालुका च मित्रं नृणां स्यात् सति मूत्रकृच्छ्रे ॥” अथापथ्यानि । “मद्यं श्रमं निधुवनं गजवाजियानं सर्व्वं विरुद्धमशनं विषमाशनञ्च । ताम्बूलमत्स्यलवणार्द्रकतैलभृष्टं पिन्याकहिङ्गुतिलसर्षपवेगरोधान् ॥ माषान् करीरमतितीक्ष्ण विदाहिरूक्ष- मम्लञ्च मुञ्चतु जनः सति मूत्रकृच्छ्रे ॥” इति वैंद्यकपथ्यापथ्यविधिग्रन्थे मूत्रकृच्छ्राधि- कारे ॥)

"https://sa.wiktionary.org/w/index.php?title=मूत्रकृच्छ्रम्&oldid=158526" इत्यस्माद् प्रतिप्राप्तम्