मूत्रदोष
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मूत्रदोषः, पुं, (मूत्रस्य दोषो यस्मात् ।) प्रमेहः । इति राजनिर्घण्टः ॥ (यथा, सुश्रुते । सूत्र- स्थाने ३८ अः । “परुषकादिरित्येष गणोऽनिलविनाशनः । मूत्रदोषहरो हृद्यः पिपासावो रुचिप्रदः ॥” मूत्राघातादिः । अस्य चिकित्सा यथा, -- “निदिग्धिकायाः स्वरसं पिबेत् कुडवसम्मितम् । मूत्रदोषहरं कल्कमथवा क्षौद्रसंयुतम् ॥” “अत ऊर्द्ध्वं प्रवक्ष्यामि मूत्रदोषे क्रमं हितम् । स्नेहस्वेदोपपन्नानां हितन्तेषु विरेचनम् ॥ ततः संशुद्धदेहानां हिताश्चोत्तरवस्तयः ॥” “क्षौद्रार्द्धपात्रं दत्त्वा तु पात्रन्तु क्षीरसर्पिषोः । स्वयङ्गुप्ताफलञ्चैव तथैव क्षुरकस्य च ॥ पिप्पलीचूर्णसंयुक्तमर्द्धभागं प्रदापयेत् । एतदैकध्यमानीय खजेनाभिप्रमन्थयेत् ॥ तस्य पाणितलं चूर्णं लीढ्वा क्षीरं ततः पिबेत् । एतत्सर्पिः प्रयुञ्जानः शुद्धदेहो नरः सदा ॥ मूत्रदोषान् जयेत् सर्व्वानन्ययोगैः सुदुर्ज्जयान् । जयेत् शोणितदोषांश्च बन्ध्या गर्भं लभेत च । नारी चैतत् प्रयुञ्जाना योनिदोषात् प्रमुच्यते ॥” इत्युत्तरतन्त्रेऽष्टपञ्चाशत्तमेऽध्याये सुश्रुतेनोक्तम् ॥)
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मूत्रदोष¦ पु॰ मूत्रस्य दोषो यस्मात् दुष--घञ्
६ त॰। प्रमेहरोगेराजनि॰।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मूत्रदोष¦ m. (-षः) Gonorrhœa, considered as an urinary complaint. E. मूत्र urine, दोष fault.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मूत्रदोष/ मूत्र--दोष m. urinary disease ib. ,