सामग्री पर जाएँ

मूर्खः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मूर्खः, पुं, (मुह् + “मुहेः खो मूर् च ।” उणा० ५ । २२ । इति खः धातोः मूरादेशश्च ।) माषः । इति त्रिकाण्डशेषः ॥ गायत्त्रीरहितः । यथा, “क्रियाहीनस्य मूर्खस्य महारोगिण एव च । यथेष्टाचरणस्याहुर्मरणान्तमशौचकम् ॥ क्रियाहीनस्य नित्यनैमित्तिकक्रियाननुष्ठायिनः । मूर्खस्य गायत्त्रीरहितस्य । सार्थगायत्त्रीरहि- तस्येति रुद्रधरः ॥ महारोगिणः पापरोगा- ष्टकान्यतमरोगवतः ते च उन्मादस्त्वग्दोषो राजयक्ष्मा श्वासो मधुमेहो भगन्दरः । उदरो- ऽश्मरीत्यष्टौ पापरोगा नारदोक्ताः । यथेष्टा- चरणस्य द्यूतवेश्याद्यासक्तस्य । इति शुद्धि- तत्त्वम् ॥

मूर्खः, त्रि, (मुह् + खः । मूरादेशः ।) मुह्यति यः । तत्पर्य्यायः । अज्ञः २ मूढः ३ यथाजातः ४ वैधेयः ५ वालिशः ६ । इत्यमरः । ३ । १ । ४८ ॥ तस्य वशीकरणोपायो यथा, -- “मित्रं स्वच्छतया रिपुं नयबलैर्लुब्धं धनैरीश्वरं कार्य्येण द्बिजमादरेण युवतीं प्रेम्णा गुणै- र्बान्धवान् । अत्युग्रं स्तुतिभिर्गुरुं प्रणतिभिर्मूर्खं कथाभि र्बुधं विद्याभी रसिकं रसेन सकलं शीलेन कुर्य्याद्- वशम् ॥” इति नवरत्नानि ॥ “पयःपानं भुजङ्गानां केवलं विषवर्द्धनम् । उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये ॥” इति हितोपदेशः ॥

"https://sa.wiktionary.org/w/index.php?title=मूर्खः&oldid=158546" इत्यस्माद् प्रतिप्राप्तम्