सामग्री पर जाएँ

मूर्च्छना

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मूर्च्छना, स्त्री, (मूर्च्छि + युच् । टाप् ।) गीताङ्ग- विशेषः । सा तु ग्रामस्य सप्तमभागः । तस्या लक्षणं एकविंशतिनामानि च यथा, -- “स्वरः संमूर्च्छितो यत्र रागतां प्रतिपद्यते । मूर्च्छनामिति तामाहुः कवयो ग्रामसम्भवाम् ॥ ललिता मध्यमा चित्रा रोहिणी च मतङ्गजा । सौवीरी षण्डमध्या च षड्जमध्यमपञ्चमा ॥ मत्सरी मृदुमध्या च शुद्धान्ता च कलावती । तीव्रा रौद्री तथा ब्राह्मी वैष्णवी स्वेदरी सुरा ॥ नादावती विशाला च त्रिषु यामेषु विश्रुताः । एकविंशतिरित्युक्ता मूर्च्छना चन्द्रमौलिना ॥ मूर्च्छनां कलयतो मुरशत्रो- र्वंशिकाध्वनिविशेषवितानैः । मूर्च्छनां ययुरनङ्गशरौघै- रङ्गना रतिपतेरिव सेनाः ॥” इति सङ्गीतदामोदरः ॥ हनूमन्मते षड्जादिस्वरत ऋषभादिस्वरोत्थाने यत्र स्वरो विरमति सा मूर्च्छना । भरतमते वाद्यस्य गानस्य वा समये यत्र हस्तस्य गलस्य वा कम्पनं सा मूर्च्छना । सा एकविंशति- प्रकारा । तत्र षड्जग्रामस्य मूर्च्छना ललिता १ मध्यमा २ चित्रा ३ रोहिणी ४ मतङ्गजा ५ सौवीरो ६ षण्डमध्या च ७ । मध्यमग्रामस्य मूर्च्छना पञ्चमा १ मत्सरी २ मृदुमध्या ३ शुद्धा ४ अन्ता ५ कलावती ६ तीव्रा च ७ ॥ गान्धारग्रामस्य मूर्च्छना रौद्री १ ब्राह्मी २ वैष्णवी ३ स्वेदरी ४ सुरा ५ नादावती ६ विशाला च ७ । इति सङ्गीतशास्त्रम् ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मूर्च्छना¦ स्त्री मुच्छं--युच्।
“स्वरः संमूर्च्छितो यत्र रानतांप्रतिपद्यते। मूर्च्छनामिति तां प्राहुः कवयो ग्रामस-म्भवाम्” इत्युक्ते गानाङ्गभेदे
“स्फुटीभवद्ग्रामविशेषमूर्च्छनाम्” माघः।

"https://sa.wiktionary.org/w/index.php?title=मूर्च्छना&oldid=360951" इत्यस्माद् प्रतिप्राप्तम्