मूर्च्छितः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मूर्च्छितः, त्रि, (मूर्च्छास्य संजाता । मूर्च्छा + तारकादित्वात् इतच् ।) मूर्च्छायुक्तः । तत्- पर्य्यायः । मूर्त्तः २ मूर्च्छालः ३ । इत्यमरः । २ । ६ । ६१ ॥ (यथा, भट्टौ । ६ । २३ । “तथाभ्यषिक्तवारीणि पितृभ्यः शोकमूर्च्छितः ।”) उच्छयः । मूढः । इति मेदिनी ॥ वृद्धः । इत्य- जयः ॥ (व्याप्तः यथा, रामायणे । २ । ११४ । १९-२० ॥ “किं नु खल्वद्य गम्भीरो मूर्च्छितो न निशाम्यते । यथापुरमयोध्यायां गीतवादित्रनिस्वनः ॥ वारुणीमदगन्धश्च माल्यगन्धश्च मूर्च्छितः । चन्दनागुरुगन्धश्च न प्रवाति समन्ततः ॥”)
