सामग्री पर जाएँ

मूर्त्तः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मूर्त्तः, त्रि, (मूर्च्छ + क्तः “राल्लोपः ।” ६ । ४ । २१ । इति छलोपः । “न ध्याख्यापॄमूर्च्छिमदाम् ।” ८ । २ । ५७ । इति निष्ठातकारस्य नत्वाभावः ।) मूर्च्छितः । इत्यमरः । २ । ६ । ६१ ॥ कठिनः । मूर्त्तिमान् । इति मेदिनी । ते, ४५ ॥ न्यायमते पृथिवी जलं तेजः वायुः मनश्च । एषां गुणाः । रूपं रसः गन्धः स्पर्शः परत्वं अरपत्वं गुरुत्वम् । स्नेहः वेगश्च । मूर्त्तामूर्त्त- साधारणगुणाः । यथा, भाषापरिच्छेदे । संख्या परिमितिः पृथक्त्वं संयोगः विभागश्च । (यथा, मार्कण्डेये । २३ । ४७ । “यच्चामूर्त्तं यच्च मूर्त्तं समस्तं यद्बा भूतेष्वेकमेकञ्च किञ्चित् । यद्दिव्यस्ति क्ष्मातले खेऽन्यतो वा त्वत्सम्बन्ध त्वत्स्वरैर्व्यञ्जनैश्च ॥”)

"https://sa.wiktionary.org/w/index.php?title=मूर्त्तः&oldid=158559" इत्यस्माद् प्रतिप्राप्तम्