सामग्री पर जाएँ

मूर्त्ति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मूर्त्तिः, स्त्री, (मूर्च्छ + क्तिन् । “न ध्याख्येति ।” ८ । २ । ५७ । इत्यस्मान्न तकारस्य नत्वम् ।) काठिन्यम् । शरीरम् । इत्यमरः । ३ । ३ ॥ ६६ ॥ (यथा, मनौ । १२ । १२० । “खं सन्निवेशयेत् खेषु चेष्टनस्पर्शनेऽनिलम् । पक्तिदृष्ट्योः परं तेजः स्नेहेऽपो गाञ्च मूर्त्तिषु ॥”) प्रतिमा । इति हेमचन्द्रः ॥ स्वरूपः । यथा, -- “आचार्य्यो ब्रह्मणो मूर्त्तिः पिता मूर्त्तिः प्रजापतेः । भ्राता मरुत्पतेर्म्मूर्त्तिर्म्माता साक्षात् क्षिते- स्तनूः ॥ दयाया भगिनी मूर्त्तिर्द्धर्म्मस्यात्मातिथिः स्वयम् । अग्नेरम्यागतो मूर्त्तिः सर्व्वभूतानि चात्मनः ॥” इति श्रीभागवते । ६ । ७ । २९ -- ३० ॥ (ब्रह्मसावर्णिपुत्रविशेषः । यथा, तत्रैव । ८ । १३ । २१ -- २२ । “तत्सुता भूरिषेणाद्या हविष्मत्प्रमुखा द्विजाः । सुवासना विरुद्धाद्या जयो मूर्त्तिस्तदा द्विजाः ॥”)

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मूर्त्ति¦ स्त्री मुर्च्छ--क्तिन्।

१ देहे

२ काठिन्ये, अमरः।

३ प्रतिमायाञ्च हेम॰।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मूर्त्ति¦ f. (-र्त्तिः)
1. Matter, substance, solidity.
2. The body.
3. Figure, form, body in general, or any definite shape or image.
4. Manifes- tation.
5. Beauty.
6. Hardness. E. मूर्च्छ् to faint, to become insen- sible, aff. क्तिन्, form irr.

"https://sa.wiktionary.org/w/index.php?title=मूर्त्ति&oldid=361189" इत्यस्माद् प्रतिप्राप्तम्