मूर्द्धा
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मूर्द्धा, [न्] पुं, (मूर्वति बध्नाति यत्रेति । मुर्व्व + “श्वन् उक्षन् पूषन् । उणा० १ । १५८ । इति कनिन् । उकारस्य दीर्घः बकारस्य धकारश्च ।) मस्तकः । इत्यमरः । २ । ६ । ९५ । (यथा, बृहत्संहितायाम् । ७७ । २ । “लोहे पात्रे तण्डुलान् कोद्रवाणां शुक्ले पक्वा~ल्लोहचूर्णेन साकम् । पिष्टान् सूक्ष्मं मूर्द्ध्नि शुक्लाम्लकेशे दत्त्वा तिष्ठेद्वेष्टयित्वार्कपत्रैः ॥”)
मूर्द्धा, [न्] पुं, (मूर्व + कनिन् । वस्य धः दीर्घश्चोकारस्य ।) शिरः । यथा, -- मूर्द्धा मूर्द्ध्वा शिरोदेशे पुंसि स्यातामिमौ समौ । इत्युणादिकोषः ॥ मूर्व्वीं नहे मूर्द्धा मूर्द्ध्वा च । अस्य धङध्वङौ । इति तट्टीका ॥ (यथा, देवीभागवते । २ । ७ । २८ । “दृष्ट्वा वेणीं कृतां मूर्द्ध्नि कज्जलं लोचने तथा । असिं गृहीत्वा तरसा छेद्म्यहं नान्यथा सुखम् ॥”)
