सामग्री पर जाएँ

मूर्द्धाभिषिक्तः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मूर्द्धाभिषिक्तः, पुं, क्षत्त्रियः । राजा । इत्यमरः । ३ । ३ । ६१ ॥ मूर्द्धन्यभिषिक्तो मूर्द्धाभिषिक्तः राज्यारोपणसमये प्रथमः क्षत्त्रियो मूर्द्धाभि- षिक्तः । तत्प्रभवत्वात् योग्यतयानभिषिक्तोऽपि मूर्द्धाभिषिक्तः । (यथा, भागवते । ९ । १५ । ४१ । “राज्ञो मूर्द्धाभिषिक्तस्य वधो ब्रह्मवधाद्गुरुः । तीर्थसंसेवया चांहो जह्याङ्गाच्युतचेतनः ॥”) वर्णसङ्करविशेषः । स तु विप्रात् क्षत्त्रियायां जातः ॥ प्रधानः । इति भरतः ॥ मन्त्री । इति मेदिनी । ते, २३२ ॥

"https://sa.wiktionary.org/w/index.php?title=मूर्द्धाभिषिक्तः&oldid=158581" इत्यस्माद् प्रतिप्राप्तम्