सामग्री पर जाएँ

मूर्द्धावसिक्तः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मूर्द्धावसिक्तः, पुं, वर्णसङ्करभेदः । स तु क्षत्त्रियायां ब्राह्मणेनोत्पादितः । यथा, -- “स्त्रीष्वनन्तरजातासु द्विजैरुत्पादितान् सुतान् । सदृशानेव तानाहुर्म्मातृदोषविगर्हितान् ॥” इति मानवे १० अध्याये ६ श्लोकः ॥ * ॥ ‘स्त्रीष्विति आनुलोम्येन अव्यवहितवर्णजाती- यासु भार्य्यासु द्बिजातिभिर्य उत्पादिताः पुत्त्राः । यथा । ब्राह्मणेन क्षत्त्रियायां क्षत्त्रियेण वैश्यायां वैश्येन शूद्रायाम् । तान् मातुर्हीन- जातीयत्वदोषेण गर्हितान् पितृसदृशान् न तु पितृसजातीयान् मन्वादय आहुः । पितृसदृश- ग्रहणात् मातृजातेरुत्कृष्टाः पितृजातितो निकृष्टा ज्ञेयाः । एतेषाञ्च नामानि मूर्द्धा- वसिक्तमाहिष्यकरणाख्यानि याज्ञवल्क्यादिभि- रुक्तानि । वृत्तयश्चैषामुशनसोक्ताः । हस्त्य- श्वरथशिक्षास्त्रधारणञ्च मूर्द्धावसिक्तानाम् । नृत्यगीतनक्षत्रजीवनं शस्यरक्षा च माहि- ष्याणाम् । द्बिजातिशुश्रूषा धनधान्याध्यक्षता राजसेवा दुर्गान्तःपुररक्षा च पारशवोग्र- करणानामिति । इति तट्टीकायां कुल्लूक- भट्टः ॥

"https://sa.wiktionary.org/w/index.php?title=मूर्द्धावसिक्तः&oldid=158583" इत्यस्माद् प्रतिप्राप्तम्