मूर्व्वा
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मूर्व्वा, स्त्री, (मूर्वति इति । मूर्व + अच् टाप् ।) लताविशेषः । धनुर्गुणोपयुक्ता मुरगा इति ख्याता । तत्पर्य्यायः । देवी २ मधुरसा ३ मोरटा ४ तेजनी ५ स्रवा ६ मधूलिका ७ धनुःश्रेणी ८ गोकर्णी ९ पीलुपर्णी १० । इत्य- मरः । २ । ४ । ८३ ॥ स्रुवा ११ मूर्व्वी १२ । मधुश्रेणी १३ धुनुः १४ श्रेणी १५ । इति तट्टी- कायां भरतः ॥ सुरङ्गिका १६ । देवश्रेणी १७ पृथक्त्वचा १८ मधुस्रवा १९ अतिरसा २० पीलुपर्णिका २१ दिव्यलता २२ ज्वलिनी २३ गोपवल्ली २४ । अस्या गुणाः । अतितिक्तत्वम् । कषायत्वम् । उष्णत्वम् । हृद्रोगकफवातवमि- प्रमेहकुष्ठविषमज्वरनाशित्वञ्च । इति राज- निर्घण्टः ॥ अपि च । “मूर्व्वा सरा गुरुः स्वादुस्तिक्ता पित्तास्रमेहनुत् । त्रिदोषतृष्णाहृद्रोगकण्डुकुष्ठज्वरापहा ॥” इति भावप्रकाशः ॥ (तथास्याः पर्य्यायः । “तेजनी पिलुनी देवा तिक्तवल्ली पृथक्त्वचा । धनुःश्रेणी मधुरसा मूर्व्वा निर्द्दहनीति च ॥” इति वैद्यकरत्नमालायाम् ॥ “मूर्व्वा मधुरसा ज्ञेया तेजनी तिक्तवल्कला ।” इति गारुडे २०८ अध्याये ॥)
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मूर्व्वा¦ f. (-र्व्वा-र्व्वी) A sort of creeper, from the fibres of which bow- strings are made, (Sanseviera zeylanica;) they should also form the girdle worn by the Kshetriya class. E. मुर्व्व् to bind, affs. अङ् and टाप् |
