मूलकः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मूलकः, पुं, (मूले जातः । मूल + “पूर्ब्बाह्णापरा- ह्णार्द्रामूलप्रदोषावस्कराद्वुन् ।” ४ । ३ । २८ । इति वुन् ।) चतुस्त्रिंशत्स्थावरविषजात्यन्त- र्गतविषभेदः । इति हेमचन्द्रः । ४ । २६८ ॥ (मूलप्रकार इति । मूल + “स्थूलादिभ्यः प्रकार- वचने कन् ।” ५ । ४ । ३ । इति कन् । मूल- स्वरूपः । यथा, भागवते । ९ । ९ । ४१ । “नारीकवच इत्युक्तो निःक्षत्त्रे मूलकोऽभवत् ॥”)
